श्री शनि वज्रपंजर कवच

श्री शनि वज्रपंजर कवच

श्री शनि वज्रपंजर कवच  शनि वज्र पंजर कवच के पाठ से शनि दोष का निवारण होता है। इसके प्रतिदिन पाठ से शनि की साढ़ेसाती में कष्ट कम होता है। शनि देव न्याय के देवता हैं अतः शनि वज्र पंजर कवच के पाठ से आपके साथ न्याय होता है।

Shri Shani Vajrapanjara Kavach

श्री शनि वज्रपंजर कवच – Shri Shani Vajrapanjara Kavach

ओं अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः अनुष्टुप् छन्दः श्री शनैश्चर देवता श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः

ध्यानम् । नीलाम्बरो नीलवपुः किरीटीगृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नःसदा मम स्याद्वरदः प्रशान्तः ॥ ब्रह्मोवाच । शृणुध्वं ऋषयः सर्वे शनिपीडाहरं महत् ।कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ कवचं देवतावासं वज्रपञ्जरसञ्ज्ञकम् ।शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ॥ कवच ओं श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः ।नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ 1 ॥ नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ 2 ॥ स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः ।वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ 3 ॥ नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा ।ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥ 4 ॥ पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः ।अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनन्दनः ॥ 5 ॥ फलश्रुतिः इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः ।न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोऽपि वा ।कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः ॥ अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।कवचं पठते नित्यं न पीडा जायते क्वचित् ॥ इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा । जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनि वज्रपंजर कवच ।

Top ten astrologers in India – get online astrology services from best astrologers like horoscope services, vastu services, services, numerology services, kundli services, online puja services, kundali matching services and Astrologer,Palmist & Numerologist healer and Gemstone,vastu, pyramid and mantra tantra consultant

Currency
Translate
X