गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढ़तरम्। श्रीनन्दकुमाराष्टकम्

गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढ़तरम्। श्रीनन्दकुमाराष्टकम्
May 16, 2019
गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढ़तरम्।
वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरम्।।
सुंदरगोपालम् उरवनमालं नयनविशालं दुःखहरम् । वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ।। वल्लभघनश्यामं पूर्णकामम् अत्यभिरामं प्रीतिकरम् । भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।1।। सुंदरवारिजवदनं निर्जितमदनम् आनन्दसदनं मुकुटधरम् । गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।। वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं । भज. ।।2।। शोभितमुखधूलं यमुनाकूलं निपटअतूलं सुखदतरम् । मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।। वल्लभमतिविमलं शुभपदकमलं नखरुचिअमलं तिमिरहरं । भज. ।।3।। शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरम् । मायाकृतमनुजं हलधरअनुजं प्रतिहतद्नुजं भारहरम् ।। वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं । भज. ।।4।। इंदीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरम् । हृतमन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।। वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं । भज. ।।5।। अतिपरप्रवीणं पालितदीनं भक्ताधीनं कर्मकरम् । मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।। वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं । भज. ।।6।। जलधरद्युतिअंगललितत्रिभंगबहुकृतरंगरसिकवरम् । गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढ़तरम् ।। वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरं । भज. ।।7।। वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरम् । कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।। वल्लभदु:खहरणं निर्मलचरणम् अशरणशरणं मुक्तिकरं । भज. ।।8।।